|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.109. अध्यायः 109
Mahabharata - Drona Parva - Chapter Topics
घटोत्कचेनालम्बुसवधः॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-109-0x(4538)(49033)
`किरन्तं शरवर्षाणि रोषाद्दोणं महाहवे।
वित्रासयन्तं तां सेनां कौन्तेयानां महीपते॥ 7-109-1(49034)
दृष्ट्वा ततो महेष्वासो निघ्नन्तं च रथान्भृशम्।
घटोत्कचो महाबाहू रणायाभिजगाम ह॥ 7-109-2(49035)
पिशाचवदनैर्युक्तं रथं काञ्चनभूषितम्।
समास्थाय महाराज नानाप्रहरणैर्युतः॥ 7-109-3(49036)
दंशितस्तपनीयेन कवचेन सुवर्चसा।
भूषणैराचिताङ्गश्च नदन्निव च तोयदः॥ 7-109-4(49037)
हैडिम्बेयः सुसङ्क्रुद्धो द्रोणमभ्यद्रवद्बली।
तमभ्यधावदायान्तं क्रद्धरूपलम्बुसः॥ 7-109-5(49038)
ऋक्षचर्मपरिक्षिप्तं रथमास्थाय दंशितः।
रक्तोष्ठः सधनुष्पाणिः प्रांशुः कल्प इव स्थितः॥ 7-109-6(49039)
क्षिपञ्छतघ्नीर्विपुला मुसलोपमतोमरान्।
मुसण्ठीर्बहुलाश्चैव त्रिशूलानपि पट्टसान्॥ 7-109-7(49040)
कर्पराञ्छतधारांश्च पिनाकान्विविधांस्तथा।
चक्राणि च क्षुरप्राणि क्षेपणीश्च कटङ्कटान्॥ 7-109-8(49041)
नारायान्विविधानस्यन्सकङ्कोलूकवायसान्।
चिक्षेप धनुरादाय निनदन्भैरवान्रवान्॥ 7-109-9(49042)
तं रौद्रं क्रूरमायान्तं दृष्ट्वा कालमिवागतम्।
प्राद्रवद्भयसंविग्ना राजन्पाण्डववाहिनी॥ 7-109-10(49043)
सात्यकिस्तु रथव्याघ्रो दृष्ट्वा तं राक्षसं युधि।
अभ्ययादमरप्रख्यो भ्रामयित्वा महद्धनुः॥ 7-109-11(49044)
अभ्यद्रवच्च तद्रक्षस्तिष्ठतिष्ठेति चाब्रवीत्।
अलम्बुसं राक्षसेन्दरं सोऽस्त्रवर्षैरवाकिरत्॥ 7-109-12(49045)
ततः पाण्डवसैन्यानि विद्रुतान्यथ भारत।
निरीक्ष्याभ्यद्रवत्तूर्णं त्वरमाणो घटोत्कचः॥ 7-109-13(49046)
चिक्षेप च गदाशक्तीस्तोमरानथ पट्टसान्।
हेमचित्रत्सरूनुग्रान्खङ्गानाकाशसप्रभान्॥ 7-109-14(49047)
अन्योन्यमरादालोक्य राक्षसौ तौ महाबलौ।
भैरवं नदतुर्नादान्सतोयाविव तोयदौ॥ 7-109-15(49048)
ततः प्रववृते युद्धं घोरं राक्षससिंहयोः।
यादृगेव पुरा वृत्तं रामरावणयोर्मृधे॥ 7-109-16(49049)
स शक्तीश्च पिनाकांश्च वज्रान्खङ्गान्परश्वथान्।
अन्योन्यमभिसङ्क्रुद्धौ तदा व्यसृजतामुभौ॥ 7-109-17(49050)
आकृष्यमाणे धनुषि तयोर्बाहुबलेन च।
यन्त्रेणेव तदा राजन्भृशं नादान्प्रचक्रतुः॥ 7-109-18(49051)
अलम्बुसस्ततश्चक्रं कृतान्तज्वलनप्रभम्।
घटोत्कचाय चिक्षेप यत्नमास्थाय वीर्यवान्॥ 7-109-19(49052)
तद्भैमसेनिः सम्प्रेक्ष्य चक्रं वेगवदन्तरे।
गदया ताडयामास तद्दीर्णं शतधाऽभवत्॥ 7-109-20(49053)
ततोऽग्निचूर्णैः सहसा चक्रघातविनिःसृतैः।
दंशकैरिव सा सेना पतद्भिर्भृशसंकुला॥ 7-109-21(49054)
ततः प्रतिहते चक्रे स वीरो रोषसंकुलः।
प्राहिणोत्तरसा शूलं शक्तीर्दशशतं तदा॥। 7-109-22(49055)
ज्वलन्तीश्च किरन्तीश्च ज्वालामालाः समन्ततः।
युगान्तोल्कानिभास्तीक्ष्णा हेमदण्डा महास्वनाः॥ 7-109-23(49056)
ताश्चापतन्तीः सम्प्रेक्ष्य राक्षसस्य घटोत्कचः।
अर्धचन्द्रैः प्रचिच्छेद नाराचैः कङ्कपत्रिभिः॥ 7-109-24(49057)
ततो रोषपरीताङ्गः प्रमुमोच स राक्षसः।
शरवर्षं महाघोरं घटोत्कचरथं प्रति'॥ 7-109-25(49058)
तयोः प्रतिभयं युद्धमासीद्राक्षससिंहयोः।
कुर्वतोर्विविधा मायाः शक्रशम्बरयोरिव॥ 7-109-26(49059)
अलम्बुसो भृशं क्रुद्धो घटोत्कचमताडयत्॥ 7-109-27(49060)
तयोर्युद्धं समभवद्रक्षोग्रामणिमुख्ययोः।
यादृगेव पुरा वृत्तं रामरावणयोः प्रभो॥ 7-109-28(49061)
घटोत्कचस्तु विंशत्या नाराचानां स्तनान्तरे।
अलम्बुसमथो विद्धा सिंहवद्व्यनदन्मुहुः॥ 7-109-29(49062)
तथैवालम्बुसो राजन्हैडिम्बिं युद्धदुर्मदम्।
विद्व्वा विद्वृऽनदद्वृष्टः पूरयन्खं समन्ततः॥ 7-109-30(49063)
तथा तौ भृशसङ्क्रुद्धौ राक्षसेन्द्रौ महाबलौ।
निर्विशेषमयुध्येतां मायाभिरितरेतरम्॥ 7-109-31(49064)
मायाशतसृजौ नित्यं मोहयन्तौ परस्परम्।
मायायुद्धेषु कुशलौ मायायुद्धमयुध्यताम्॥ 7-109-32(49065)
यांयां घटोत्कचो युद्धे मायां दर्शयते नृप।
तां तामलम्बुसो राजन्माययैव निजघ्निवान्॥ 7-109-33(49066)
तं तथा युध्यमानं तु मायायुद्धविशारदम्।
अलम्बुसं राक्षसेन्द्रं दृष्ट्वाऽक्रुध्यन्त पाण्डवाः॥ 7-109-34(49067)
त एनं भृशसंविग्नाः सर्वतः प्रवरा रथैः।
अभ्यद्रवन्त सङ्कुद्धा भीमसेनादयो नृप॥ 7-109-35(49068)
त एनं कोष्ठकीकृत्य रथवंशेन मारिष।
सर्वतो व्यकिरन्बाणैरुल्काभिरिव कुञ्जरम्॥ 7-109-36(49069)
स तेषामस्त्रवेगं तं प्रतिहत्यास्त्रमायया।
तस्माद्रथव्रजान्मुक्तो वनदाहादिव द्विपः॥ 7-109-37(49070)
स विष्फार्य अनुर्धोरमिन्द्राशनिसमस्वनम्।
मारुतिं पञ्चविंशत्या भैमसेनिं च पञ्चभिः॥ 7-109-38(49071)
युधिष्ठिरं त्रिभिर्विद्धा सहदेवं च सप्तभिः।
नकुलं च त्रिसप्तत्या द्रोपदेयांश्च मारिष।
पञ्चभिःपञ्चभिर्विद्ध्वा घोरं नादं ननाद ह॥ 7-109-39(49072)
तं भीमसेनो नवभिः सहदेवस्तु पञ्चभिः।
युधिष्ठिरः शतेनैव राक्षसं प्रत्यविध्यत।
नकुलस्तु चतुःषष्ट्या द्रौपदेयास्त्रिभिस्त्रिभिः॥ 7-109-40(49073)
हैडिम्बो राक्षसं विद्ध्वा युद्धे पञ्चाशता शरैः।
पुनर्विव्याध सप्तत्या ननाद च महाबलः॥ 7-109-41(49074)
तस्य नादेन महता कम्पितेयं वसुन्धरा।
सपर्वतवना राजन्सपादपजलाशया॥ 7-109-42(49075)
सोऽतिविद्धो महेष्वासैः सर्वतस्तैर्महारथैः।
प्रतिविव्याध तान्सर्वान्पञ्चभिः पञ्चभिः शरैः॥ 7-109-43(49076)
तं क्रुद्धं राक्षसं युद्धे प्रतिक्रुद्धस्तु राक्षसः।
हैडिम्बो भरतश्रेष्ठ शरैर्विव्याध सप्तभिः॥ 7-109-44(49077)
सोऽतिविद्धो बलवता राक्षसेन्द्रो महाबलः।
व्यसृजत्सायकांस्तूर्णं रुक्मपुङ्खाञ्शिलाशितान्॥ 7-109-45(49078)
ते शऱा नतपर्वाणो भैमसेनिविनिर्भिदः।
रुषिताः पन्नगा यद्वद्योधमुख्यानुपागमन्॥ 7-109-46(49079)
ततस्ते पाण्डवा राजन्समन्तान्निशिताञ्शरान्।
प्रेषयामासुरुद्विग्ना हैडिम्बश्च घटोत्कचः॥ 7-109-47(49080)
स विध्यमानः समरे पाण्डवैर्जितकाशिभिः।
`*नाभ्यपद्यत कर्तव्यमार्श्यशृङ्गिर्महाबलः॥ 7-109-48(49081)
घटोत्कचं महाराज शरवर्षैरवाकिरत्।
दग्धाद्रिकूटसदृशं तमञ्जनचयोपरमम्॥ 7-109-49(49082)
घटोत्कचोऽप्यसम्भ्रान्तः शरवर्षं महत्तरम्।
अलम्बुसवधप्रेप्सुर्मुमोचाग्निरिव ज्वलन्॥ 7-109-50(49083)
अलम्बुसवधाच्चोग्राद्धटोत्कचवधादपि।
शराः प्रादुर्भवन्ति स्म द्विरेफा इव शाखिनः॥ 7-109-51(49084)
अभ्रच्छायेव रचिता बाणैस्तत्र नरेश्वर।
न स्म विज्ञायते किञ्चिदन्धकारे कृते शरैः॥ 7-109-52(49085)
तत आकर्णमुक्तेन भल्लेन च घटोत्कचः।
अलम्बुसस्य चिच्छेद शिरो यन्तुर्महाबलः॥ 7-109-53(49086)
ततोऽपरैर्वेगवद्भिः क्षुरैस्तस्य घटोत्कचः।
अक्षमीषां युगं चैव चिच्छेद युधि ताडयन्॥ 7-109-54(49087)
अवस्कन्द्य रथात्तूर्णं कैर्मीरः क्रोधमूर्च्छितः।
तस्मिन्मायामयं घोरमस्त्रवर्षं ववर्ष ह॥ 7-109-55(49088)
घटोत्कचोऽप्याशु रथात्प्रस्कन्द्य स तमेव च।
मायास्त्रेणैव मायास्त्रं व्यधमत्समरे रिपोः॥ 7-109-56(49089)
हैडिम्बेनार्द्यमानस्तु युधि सोऽलम्बुसोऽद्रवत्।
अन्तर्हितो महाराज घटोत्कचमयोधयत्॥ 7-109-57(49090)
अन्तर्धानगतं दृष्ट्वा तत्रतत्र घटोत्कचः।
गदया ताडयामास वेगवत्या महाबलः॥ 7-109-58(49091)
उत्पपात ततो व्योम्नि प्रहारपरिपीडितः।
अलम्बुसो राक्षसेन्द्रः सहसा पक्षिराडिव॥ 7-109-59(49092)
घटोत्कचोऽप्यसम्भ्रान्तः खङ्गपाणिरथोत्पतत्।
ततो वेगेन महता विवर्षिषुरिवाम्बुदः॥ 7-109-60(49093)
तमापतन्तं सम्प्रेक्ष्य कैर्मीरी राक्षसोत्तमः।
अभिदुद्राव वेगेन सिंहः सिंहमिव स्थितम्॥ 7-109-61(49094)
दक्षिणेनासिमुद्यम्य वक्षः प्रच्छाद्य वर्मणा।
अभिदुद्राव वेगेन वेगवन्तं घटोत्कचः॥ 7-109-62(49095)
तावुभौ वेगसंरब्धावलम्बुसघटोत्कचौ।
अन्योन्यस्य तथैवोरू समाजघ्नतुरञ्जसा॥ 7-109-63(49096)
अन्योन्यस्याभिघातेन तयो राक्षससिंहयोः।
शैलेनाभिहतस्येव शैलस्याभून्महास्वनः॥ 7-109-64(49097)
ततोऽपसृत्य सहसा पुनरापेततुर्भृशम्।
चरन्तावसिमार्गांस्तान्विविधान्राक्षसोत्तमौ॥ 7-109-65(49098)
तयोर्गात्रेषु पतितावसी भिन्नौ निपेततुः।
वेगोत्सृष्टे मघवता वज्रे शैलतटेष्विव॥ 7-109-66(49099)
ततः सैन्यानि ददृशुस्तद्युद्धमतिदारुणम्।
युद्धं तयो राक्षसयोरामिषे श्येनयोरिव॥ 7-109-67(49100)
ततो लोहितरक्ताक्षावुभौ तौ राक्षसोत्तमौ।
तथैक्ष्येतां तु शार्दूलौ सन्ध्यारक्ताविवाम्बुदौ॥ 7-109-68(49101)
चक्राते श्येनवच्चैव मण्डलानि सहस्रशः।
उभौ निस्त्रिंशहस्तौ तौ सपक्षाविव पक्षिणौ॥ 7-109-69(49102)
भ्रामयित्वा तु तं खङ्गं पाण्डोः किर्मीरनन्दनः।
चिक्षेपास्य शिरो हर्तुं स च तस्य घटोत्कचः॥ 7-109-70(49103)
तावसी युगपद्दीप्तौ समेत्य विपुलौ भुवि।
पतितौ तौ तु बाहुभ्यां राक्षसौ समसज्जताम्॥ 7-109-71(49104)
शीर्षाघातांसधातैश्च परस्परमथाहतौ।
पुनर्विमिश्रितौ वीरौ व्यायुध्येते मुहुर्मुहुः॥ 7-109-72(49105)
भैमसेनिरथोत्क्षिप्य समाविध्य पुनः पुनः।
निष्पिपेष क्षितौ क्षिप्रं पूर्णकुम्भमिवाश्मनि॥ 7-109-73(49106)
बललाघवसम्पन्नः सम्पन्नो विक्रमेण च।
भैमसेनिरथ क्रुद्धः सर्वसैन्यस्य पश्यतः॥ 7-109-74(49107)
असृक्क्षरितसर्वाङ्गश्चूर्णितास्थिविभूषणः।
घटोत्कचेन निष्पिष्टो हतः सालकटङ्कटः॥ 7-109-75(49108)
पाण्डवानां ततः सेना तं दृष्ट्वा विनिपातितम्।
ननाद सुमहानादं हर्षवेगसमाप्लुता॥ 7-109-76(49109)
ततस्तु निपपाताशु गतासुर्भुवि राक्षसः।
शिखरं पर्वतस्येव वज्रवेगेन पातितम्॥ 7-109-77(49110)
पतता तेन महता रथिनां दन्तिनां दश।
तव सैन्ये महाराज निहताः सुबृहत्तया॥ 7-109-78(49111)
ततो घटोत्कचो हत्वा तद्रक्षो वृत्रसन्निभम्।
पुनः स रथमास्थाय विजिगीषुर्ननादह'॥ 7-109-79(49112)
ततः सुमनसः पार्था हते तस्मिन्निशाचरे।
चुक्रुशुः सिंहनादांश्च वासांस्यादुधुवुश्च ह॥ 7-109-80(49113)
तावकाश्च हतं दृष्ट्वा राक्षसेन्द्रं महाबलम्।
अलम्बुसं तथा शूरा विशीर्णमिव पर्वतम्।
हाहाकारमकार्षुश्च सैन्यानि भरतर्षभ॥ 7-109-81(49114)
जनाश्च तद्ददृशिरे रक्षः कौतूहलान्विताः।
यदृच्छया निपतितं भूमावङ्गारकं यथा॥ 7-109-82(49115)
घटोत्कचस्तु तद्धत्वा रक्षो बलवतां वरम्।
मुमोच बलवन्नादं बलं हत्वेव वासवः॥ 7-109-83(49116)
स पूज्यमानः पितृभिः सबान्धवै--
र्घटोत्कचः कर्मणि दुष्करे कृते।
रिपुं निहत्याभिननन्द वै तदा
ह्यलम्बुसं पक्वमलम्बुषं यथा॥ 7-109-84(49117)
ततो निनादः सुमहान्समुत्थितः
सशङ्खनानाविधबाणघोषवान्।
निशम्य तं प्रत्यनदंस्तु पाण्डवा--
स्ततो ध्वनिर्भुवनमथाऽस्पृशद्भृशम्॥ 7-109-85(49118)
`ततोऽभिगम्य राजानं धर्मपुत्रं युधिष्ठिरम्।
स्वकर्मावेदयन्मूर्ध्ना प्राञ्जलिर्निपपात ह॥ 7-109-86(49119)
मूर्ध्न्युपाघ्राय तं ज्येष्ठः परिष्वज्य च पाण्डवः।
प्रितोऽस्मीत्यब्रवीद्राजन्हर्षादुत्फुल्ललोचनः॥ 7-109-87(49120)
घटोत्कचेन निष्पिष्टे हते सालकटङ्कटे।
बभूवुर्मुदिताः सर्वे हते तस्मिन्निशाचरे'॥ ॥ 7-109-88(49121)
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे नवाधिकशततमोऽध्यायः॥ 109 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-109-1 रक्षोग्रामणिमुख्ययोः रक्षःपतिप्रघानयोः॥ 5-109-* नाभ्यपद्यतेत्यारभ्य विजिगीषुर्ननादहेति 79 तमश्लोकपर्यन्तं विद्यमानानां श्लोकानां स्थाने अधोलिखिताः सार्धषट्श्लोका एव झ.पुस्तके सन्ति। मर्त्यधर्ममनुप्राप्तः कर्तव्यं नान्वपद्यत। ततःसमरशौण्डो वै भैमसेनिर्महाबलः॥ समीक्ष्य तदवस्थं तं वधायास्य मनो दधे। वेगं चक्रे महान्तं च राक्षसेन्द्रथं प्रति॥ दग्धाद्रिकूटशृङ्गाभं भिन्नाञ़्जनचयोपमम्। रथाद्रथमभिद्रुत्य क्रुद्धो हैडिम्बिराक्षिपत्॥ उद्वबर्ह रथाच्चापि पन्नागं गरुडो यथा। समुत्क्षिप्य च बाहुभ्यामाविद्व्य च पुनः पुनः॥ निष्पिपेष क्षितौ क्षिप्रं पूर्णकुम्भमिवाश्मनि। बललाघवसम्पन्नः सम्पन्नो विक्रमेण च॥ भैमसेनी रणे क्रुद्धः सर्वसैन्यान्यभीषयत्। स विष्फारितसर्वाङ्गश्चूर्णितास्थिर्विभीषणः॥ घटोत्कचेन वीरेण हतः सालकटङ्कटः। 5-109-15 भुवनं स्वर्लोकम्॥ 5-109-109 नवाधिकशततमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|